मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् २३

संहिता

य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नाम् ।
ये वा॒ जने॑षु प॒ञ्चसु॑ ॥

पदपाठः

ये । आ॒र्जी॒केषु॑ । कृत्व॑ऽसु । ये । मध्ये॑ । प॒स्त्या॑नाम् ।
ये । वा॒ । जने॑षु । प॒ञ्चऽसु॑ ॥

सायणभाष्यम्

येवा सोमा आर्जीकेषु ऋजीकानामदूरभवाः आजिंकादेशाः तेषु तथा कृत्वसु कृत्वा- नइति देशाभिधनं नेषु कर्मवत्सु देशेषु किंच पस्त्यानां सरस्वत्यादीनां नदीनां मध्ये समी- पेच ये सोमाः अभिषूयन्ते । ऋषयोवैअरस्वत्यांसत्रमासतेत्यादिषु नदीतरे यज्ञकरणस्य श्रवणात् । किंच जनेषु पंचसु निषादपंचमाश्चत्वारोवर्णाः पंचजनाः तेषुच येवा सोमा अभिषुतास्तेसोमाः अस्माकमभिमतं प्रयच्छन्त्वित्युत्तरेणान्वयः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः