ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पव॑न्ता॒मा सु॒वीर्य॑म् ।
सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥
ते । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । पव॑न्ताम् । आ । सु॒ऽवीर्य॑म् ।
सु॒वा॒नाः । दे॒वासः॑ । इन्द॑वः ॥
सुवानास्तत्र चाभिषूयमाणा देवासः देवाः दीपनशीलाः स्तुत्यावा इन्दवः ग्रहेषु चम- सेषुच क्षरन्तः तेसोमाः नोस्माकं दिवस्परि । परिशब्दः पंचमीद्योतकः । अन्तरिक्षादादि- त्याद्वा वृष्टिम् । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिरिति वृष्टि- कारणत्वात् । किंच सुवीर्यं शोभनवीर्योपेतं पुत्रंच धनादिकंवा आपवन्तां प्रापयन्तु । यजमानः सोमेनाभिमतफलानि प्राप्नोति खलु ॥ २४ ॥