मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् २५

संहिता

पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।
हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥

पदपाठः

पव॑ते । ह॒र्य॒तः । हरिः॑ । गृ॒णा॒नः । ज॒मत्ऽअ॑ग्निना ।
हि॒न्वा॒नः । गोः । अधि॑ । त्व॒चि ॥

सायणभाष्यम्

हर्यतः देवान् कामयमानोहरिर्हरितवर्णः किंच गोस्त्वच्यधि आनडुहे चर्मणि हिन्वा- नः प्रेर्यमाणः ससोमः जमदग्निना मंत्रद्रष्ट्र ऋषिणा गृणानः स्तूयमानःसन् पवते दशापवि- त्रेण पूतोभवति यद्वा पात्राण्यभिगच्छति ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः