मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् २६

संहिता

प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।
श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥

पदपाठः

प्र । शु॒क्रासः॑ । व॒यः॒ऽजुवः॑ । हि॒न्वा॒नासः॑ । न । सप्त॑यः ।
श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥

सायणभाष्यम्

शुक्रासः शुक्रा दीप्यमाना वयोजुवः अन्नंप्रेरयन्तः यद्यदपेक्ष्य देवेभ्यः सोमं प्रयच्छ- न्ति तत्तदपेक्षितं सोमोददाति । ते सोमाः श्रीणानाः दधिक्षीरादिभिः श्रीयमाणाःसन्तः अप्सु वसतीवरीष्वेकधनासुच । मृंजत ऋत्विग्भिः प्रमृज्यन्ते शोध्यन्ते । तत्रदृष्टान्तः—हि- न्वानासोन सप्तयः अश्वनामैतत् । यथाश्वाः हिन्वानासो हिन्वानाः सादिभिः प्रेर्यमाणाः सन्तः अप्सु तैरेव प्रशोधिताभवन्ति तद्वत् ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः