मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् २७

संहिता

तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।
स प॑वस्वा॒नया॑ रु॒चा ॥

पदपाठः

तम् । त्वा॒ । सु॒तेषु॑ । आ॒ऽभुवः॑ । हि॒न्वि॒रे । दे॒वऽता॑तये ।
सः । प॒व॒स्व॒ । अ॒नया॑ । रु॒चा ॥

सायणभाष्यम्

अथ प्रत्यक्षस्तुतिः हे सोम आभुवः कर्मकरणार्थं समन्ताद्भवन्तीति आभुव ऋत्विजः ते सुतेषु सुतः अभिषुतः सोमः तद्वत्सु यज्ञेषु देवतातये । सर्वदेवात्तातिलितिस्वार्थिकस्ता- तिल् । इन्द्रादिदेवेभ्यः तं तादृशं प्रसिद्धं त्वा त्वां हिन्विरे ग्रावभिः प्रेरयन्ति अभिषुण्व- न्तीत्यर्थः । ततः सः अभिषुतः सत्वं अनया रुचा दीप्यमानधारया द्रोणकलशं प्रति पव- स्व आगच्छ । पवतिर्गतिकर्मा । यद्वा अनया मदीयया रुचा स्तुत्या सह कलशमागच्छ् । कलशाभिगमनकाले हि सोमं स्तुवन्ति ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः