मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १

संहिता

पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ ।
सखा॒ सखि॑भ्य॒ ईड्य॑ः ॥

पदपाठः

पव॑स्व । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒भि । विश्वा॑नि । काव्या॑ ।
सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥

सायणभाष्यम्

हे विशचर्षणे सर्वव्यापित्वेन सर्वस्यद्रष्टः हे सोम सखा स्तुत्यः स्तोतृयष्टृत्वलक्षणेन संबन्धेन सखिभूतस्त्वं ईड्यः स्तोतव्यःसन् सखिभ्यः हविःप्रदानेनोपकारकत्वान्मित्रभूते- भ्योस्मभ्यं विश्वानि सर्वाणि काव्या कवेःकर्माणि काव्यानि । ब्राह्मणादित्वात् ष्यञ् । सर्वाणि स्तोत्राण्यभिलक्षीकृत्यपवस्वागच्छ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः