मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २

संहिता

ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी ।
प्र॒ती॒ची सो॑म त॒स्थतु॑ः ॥

पदपाठः

ताभ्या॑म् । विश्व॑स्य । रा॒ज॒सि॒ । ये इति॑ । प॒व॒मा॒न॒ । धाम॑नी॒ इति॑ ।
प्र॒ती॒ची इति॑ । सो॒म॒ । त॒स्थतुः॑ ॥

सायणभाष्यम्

हे पवमान दशापवित्रेण पूयमान पुनान वा हे सोम ये धामनी पूर्वपक्षापरपक्षयो- र्लतारूपस्य सोमस्य तव एकैकपर्णवृद्धिह्रासाभ्यां तव स्वभूतौ पूर्वादिपक्षौ । यद्वा ये धामनी नामनी अंशुसोमात्मके अपि प्रतीची त्वदभिमुखंगच्छन्तौ गच्छतीवा पक्षौ नामनी तस्थतुः उपजग्मतुः । ताभ्यां त्वं विशस्य सर्वस्य लोकस्य राजसि स्वामीभवसि । पूर्वादि- पक्षाभ्यां सर्वलोकस्योपनायकत्वात्तस्य स्वामीभवसि । पृथिव्यां अंशुनाम्नां मनुष्याणां सर्वे- षां अभीप्सितदानेन तस्यलोकस्य द्युलोके देवेभ्यः स्वसुधामयकलादानेन तेषां प्रीणयिता भवति । देवाःखलु सोमस्य एकैकवृद्धिह्रासाभ्यां कलाः पिबन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः