मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ३

संहिता

परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ ।
पव॑मान ऋ॒तुभि॑ः कवे ॥

पदपाठः

परि॑ । धामा॑नि । यानि॑ । ते॒ । त्वम् । सो॒म॒ । अ॒सि॒ । वि॒श्वतः॑ ।
पव॑मान । ऋ॒तुऽभिः॑ । क॒वे॒ ॥

सायणभाष्यम्

हे सोम यस्मात्ते त्वदीयानि धामानि तेजांसि परितोवर्तंते । अतएव हे पवमान पूयमान हे कवे क्रान्तकर्मन् हे सोम त्वमृतुभिः वसन्तादिकालविशेषैः सह विश्वतः सर्वतो- सि भवसि । अहोरात्रौ यत्रयत्र व्याप्तौ तत्रतत्र वसन्तादिकालोपाधिकः सोमस्तिष्ठति तयोस्तदधीनत्वादित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः