मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ४

संहिता

पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ ।
सखा॒ सखि॑भ्य ऊ॒तये॑ ॥

पदपाठः

पव॑स्व । ज॒नय॑न् । इषः॑ । अ॒भि । विश्वा॑नि । वार्या॑ ।
सखा॑ । सखि॑ऽभ्यः । ऊ॒तये॑ ॥

सायणभाष्यम्

हे सोम सखा सखिभूतस्त्वं विश्वानि सर्वाणि वार्या वरणीयानि अस्मद्गतानि स्तोत्रा- ण्यभीलक्षीकृत्य सखिभ्योस्मभ्यं ऊतये रक्षणाय जीवनाय इषोन्नानि जनयन् प्रयच्छन् पवस्वागच्छ् । पवतिर्गतिकर्मा ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः