मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ५

संहिता

तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते ।
प॒वित्रं॑ सोम॒ धाम॑भिः ॥

पदपाठः

तव॑ । शु॒क्रासः॑ । अ॒र्चयः॑ । दि॒वः । पृ॒ष्ठे । वि । त॒न्व॒ते॒ ।
प॒वित्र॑म् । सो॒म॒ । धाम॑ऽभिः ॥

सायणभाष्यम्

हे सोम शुक्रासः सर्वत्रज्वलनशीलाः धामभिस्तेजोभिः सहितस्य तव स्वभूता अर्चयः अर्चनीया रश्मयः दिवः द्योतमानस्यादित्यस्य द्युलोकस्यवा पृष्ठे अधरभागे पृथिव्या- मित्यर्थः । पवित्रं पवमानसाधनमुदकं वितन्वते विशेशेण तन्वन्ति विस्तारयन्ति सर्वत्रकु- र्वन्तीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः