मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ७

संहिता

प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः ।
दधा॑नो॒ अक्षि॑ति॒ श्रवः॑ ॥

पदपाठः

प्र । सो॒म॒ । या॒हि॒ । धार॑या । सु॒तः । इन्द्रा॑य । म॒त्स॒रः ।
दधा॑नः । अक्षि॑ति । श्रवः॑ ॥

सायणभाष्यम्

हे सोम अभिषूयमाण देव मत्सरः इन्द्रस्यमदकरस्त्वं सुतोस्माभिरभिषुतःसन् इन्द्राय इन्द्रार्थं दशापवित्रान्निर्गतया सन्ततया त्वदीयया धारया द्रोणकलशं प्रयाहि प्रकर्षेण प्राप्नुहि । यद्वा हे सोम सुतोभिषुतस्त्वं इन्द्राय मत्सरः मादयितृतमःसन् धारया अग्नौ स्वाहाकारेण पात्रात्पतन्त्या धारया सह त्वमिन्द्रमुपयाहि । कीदृशः अक्षिति अक्षीणं श्रवः । श्रवइत्यन्ननाम । दधानोस्मभ्यं प्रयच्छन् प्रयाहीति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः