मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ८

संहिता

समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ ।
विप्र॑मा॒जा वि॒वस्व॑तः ॥

पदपाठः

सम् । ऊं॒ इति॑ । त्वा॒ । धी॒भिः । अ॒स्व॒र॒न् । हि॒न्व॒तीः । स॒प्त । जा॒मयः॑ ।
विप्र॑म् । आ॒जा । वि॒वस्व॑तः ॥

सायणभाष्यम्

हे सोम हिन्वतीः लिंगव्यत्ययः हिन्वन्तः स्तुतीः प्रेरयन्तः सप्त सप्तसंख्याका जामयः एक्स्मिन्यज्ञे कर्मकरणेन परस्परं बन्धुभूता होतृप्रभृतयः सप्तहोत्रकाः विवस्वतः देवानां हविः प्रदानेन परिचरणवतोयजमानस्य आजा आजौ अजन्ति गच्छन्ति ऋत्विजोत्रेति आजिर्यज्ञः तस्मिन् विप्रं मेधाविनं पवमानं त्वा त्वामेव धीभिः स्तुतिभिः समस्वरन् अशब्दयन् अस्तुवन् । यद्वा हिन्वतीः गच्छन्त्यः सप्तजामयोगंगाद्याः सप्तनद्यः धीभिर्व- र्णलोपश्छान्दसः धीतिभिरंगुलिभिर्विप्रं त्वां समस्वरन् प्रेरयन्ति वसतीवरीभिरेकधना- भिश्च परिशोधनार्थं प्रेरयन्तीति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः