मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ९

संहिता

मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ ।
रे॒भो यद॒ज्यसे॒ वने॑ ॥

पदपाठः

मृ॒जन्ति॑ । त्वा॒ । सम् । अ॒ग्रुवः॑ । अव्ये॑ । जी॒रौ । अधि॑ । स्वनि॑ ।
रे॒भः । यत् । अ॒ज्यसे॑ । वने॑ ॥

सायणभाष्यम्

हे सोम अग्रुवः अंगुलिनामैतत् अजन्ति प्रक्षिपन्ति हवींष्यग्नाविति । यद्वा अगेर्गत्य- र्थस्य कर्मकरणार्थं इतस्ततोगच्छन्तीति । अग्रुवोंगुलयोस्मदीया जीरौ पापनामभिभावुके क्षिप्रं कृते वा स्वनि अधि अधिकं शब्दायमाने अव्ये अविवालेन कृते पवित्रे त्वा त्वां सदा संमृजन्ति सम्यक् शोधयन्ति । यद्यदा रेभो रेभृशब्दे उदकमध्ये प्रक्षेपेण शब्दायमा- नस्त्वं वने वननीये वसतीवर्याख्ये उदके अज्यसे अक्तः सिक्तोभवसि तदा मृजन्तीत्यन्व- यः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः