मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १३

संहिता

प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः ।
यद्गोभि॑र्वासयि॒ष्यसे॑ ॥

पदपाठः

प्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । रणे॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।
यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥

सायणभाष्यम्

हे इन्दो क्षरन् सोम नोस्माकं स्वभूताय रणे रणाय रणन्ति स्तुवन्ति देवानत्रेति रणो यज्ञः । अधिकरणे अप् ङेर्यइति नभवति सर्वविधीनां छन्दसि विकल्पितत्वात् । महे महते रणाय यज्ञाय तदर्थे सिंधवः स्यन्दमाना आपः वसतीवर्याख्याः सोमसेकार्थं अर्षन्ति प्रग- च्छन्ति । यद्यदा त्वं गोभिः गव्यैः दधिक्षीरादिभिः वासयिष्यसे आच्छाद्यसे मिश्रितो- भवसि तदा आपोगच्छन्तीति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः