आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से ।
एन्द्र॑स्य ज॒ठरे॑ विश ॥
आ । प॒व॒स्व॒ । गोऽइ॑ष्टये । म॒हे । सो॒म॒ । नृ॒ऽचक्ष॑से ।
आ । इन्द्र॑स्य । ज॒ठरे॑ । वि॒श॒ ॥
हे सोम पवमान गविष्टये अंगिरसां गवामन्वेष्ट्रे महे महते नृचक्षसे नृणां मनुष्याणां द्रष्ट्रे कर्मनेतॄणां फलं पश्यतेवा इन्द्राय आपवस्व पात्रेषु दशापवित्रेण पूतो भव । किंच इन्द्रस्य जठरे उदरे उदरभूते द्रोणकलशे वा आविश प्रविश ॥ १५ ॥