मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १६

संहिता

म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः ।
युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥

पदपाठः

म॒हान् । अ॒सि॒ । सो॒म॒ । ज्येष्ठः॑ । उ॒ग्राणा॑म् । इ॒न्दो॒ इति॑ । ओजि॑ष्ठः ।
युध्वा॑ । सन् । शश्व॑त् । जि॒गे॒थ॒ ॥

सायणभाष्यम्

हे सोम त्वं महानसि यतस्त्वं देवानां प्रीणयितासि खलु त्वं ज्येष्ठः प्रशस्यतमोभवसि । किंच हे इंदो पवमान त्वमुग्राणामुद्गूर्णबलानामपि ओजस्वितमोभवसि त्वं युध्वासन् शत्रू- भिः सह युद्धं कुर्वन् एव शश्वत् सर्वदा जिगेथ तान् तेषां धनानिच जित्वानसि । जिजये थलि सन् लिटोर्जेरिति अभ्यासादुत्तरस्य कवर्गादेशः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०