मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १७

संहिता

य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः ।
भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥

पदपाठः

यः । उ॒ग्रेभ्यः॑ । चि॒त् । ओजी॑यान् । शूरे॑भ्यः । चि॒त् । शूर॑ऽतरः ।
भू॒रि॒ऽदाभ्यः॑ । चि॒त् । मंही॑यान् ॥

सायणभाष्यम्

यः सोमः उग्रेभ्यश्चित् उद्गूर्णेभ्योबलवद्भ्योपि ओजीयान् ओजस्वितमः । किंच थः शूरे- भ्यश्चित् वीरेभ्योपि शूरतरः अत्यन्तसमर्थोभवति । तथा यः सोमः भूरिदाभ्यः डुदाञ् दाने आतोमनिन्नितिविच् । बहुधनानां दातृभ्योपि मंहीयान् दातृतमोभवति । तं त्वां वृणीमहे इति उत्तरेणसंबन्धः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०