मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २१

संहिता

अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑ः सु॒वीर्य॑म् ।
दध॑द्र॒यिं मयि॒ पोष॑म् ॥

पदपाठः

अग्ने॑ । पव॑स्व । सु॒ऽअपाः॑ । अ॒स्मे इति॑ । वर्चः॑ । सु॒ऽवीर्य॑म् ।
दध॑त् । र॒यिम् । मयि॑ । पोष॑म् ॥

सायणभाष्यम्

हे अग्ने स्वपाः । सोर्मनसीत्युत्तरपदाद्युदात्तत्वम् । शोभनकर्मा त्वं अस्मे अस्मासु सुवीर्थं शोभनवीर्योपेतं वर्चः वर्चदीप्तौ तेजः पवस्व आगमय । तथा भवान् रयिं धनं पुत्रं वा पो- षम् । भावेकर्मणि वा घञ् । गवां पुष्टिं यद्वा गवादिकं मयि भवान् दधत् दधातु करोत्वित्यर्थः । दधातेर्लेटि अडागमोघोर्लोपोलेटिवेत्याकारलोपः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११