मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २२

संहिता

पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् ।
सूरो॒ न वि॒श्वद॑र्शतः ॥

पदपाठः

पव॑मानः । अति॑ । स्रिधः॑ । अ॒भि । अ॒र्ष॒ति॒ । सु॒ऽस्तु॒तिम् ।
सूरः॑ । न । वि॒श्वऽद॑र्शतः ॥

सायणभाष्यम्

पवमानः सोमः अतिस्रिधः हिंसकान् शत्रून् अतिक्रम्य गच्छति । तथा सुष्टुतिं स्तोतॄणां शोभनां स्तुतिं अभ्यर्षति आभिमुख्येन गच्छति । ऋषीगतौ तौदादिकः बहुलंछन्दसीतिशप् गुणः । किंच सूरोन सूर्यइव विश्वदर्शतः सर्वस्य द्रष्टा सर्वैर्वा दर्शनीयोभवति ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११