मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २३

संहिता

स म॑र्मृजा॒न आ॒युभि॒ः प्रय॑स्वा॒न्प्रय॑से हि॒तः ।
इन्दु॒रत्यो॑ विचक्ष॒णः ॥

पदपाठः

सः । म॒र्मृ॒जा॒नः । आ॒युऽभिः॑ । प्रय॑स्वान् । प्रय॑से । हि॒तः ।
इन्दुः॑ । अत्यः॑ । वि॒ऽच॒क्ष॒णः ॥

सायणभाष्यम्

आयुभिः कर्मनेतृभिर्मनुष्यैः मर्मृजानः पुनःपुनर्मृज्यमानः शोध्यमानः सइन्दुः ससोमः अ- त्योदेवान् सततं गन्ता भवति । कीदृशः प्रयस्वान् प्रीणनशीलान्नवान् । यद्वा स्तोतृभ्योदेय- त्वेनान्नयुक्तः अतएव प्रयसे हवीरूपायान्नाय हितः विचक्षणः सर्वस्यप्रदर्शनकारी सर्वस्यवि- द्रष्टा वा सोमः देवानभिगन्ता भवति । चक्षिङ्व्यक्तायांवाचि अनुदात्तेतश्चहलादेरितियुच् ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११