पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् ।
कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत् ॥
पव॑मानः । ऋ॒तम् । बृ॒हत् । शु॒क्रम् । ज्योतिः॑ । अ॒जी॒ज॒न॒त् ।
कृ॒ष्णा । तमां॑सि । जङ्घ॑नत् ॥
पवमानः ऋतं सत्यं यथार्थभूतं बृहत् प्रभूतं सर्वदेशेषुव्यापकं शुक्रं दीप्यमानं शेतवर्णं ज्योतिस्तेजः अजीजनत् द्युलोके उदपादयत् । किंकुर्वन् कृष्णा कृष्णवर्णानि तमांसि जंघ- नत् भृशं विनाशयन् । हन्तेर्यङ्लुकि शतरि रूपं अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ २४ ॥