मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २५

संहिता

पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत ।
जी॒रा अ॑जि॒रशो॑चिषः ॥

पदपाठः

पव॑मानस्य । जङ्घ्न॑तः । हरेः॑ । च॒न्द्राः । अ॒सृ॒क्ष॒त॒ ।
जी॒राः । अ॒जि॒रऽशो॑चिषः ॥

सायणभाष्यम्

जङ्घ्नतः पुनः पुनस्तमांसि विनाशयतो हरेर्हरितवर्णस्य अजिरशोचिषः सर्वत्रगमनशील- तेजसः पवमानस्य सोमस्य चन्द्राः चदिआह्लादने देवानामाह्लादयित्र्यः जीराःक्षिप्रं क्षर- णशीलाधाराः असृक्षत सृजन्ति पवित्रान्निर्गच्छन्तीत्यर्थः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११