मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २६

संहिता

पव॑मानो र॒थीत॑मः शु॒भ्रेभि॑ः शु॒भ्रश॑स्तमः ।
हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥

पदपाठः

पव॑मानः । र॒थिऽत॑मः । शु॒भ्रेभिः॑ । शु॒भ्रशः॑ऽतमः ।
हरि॑ऽचन्द्रः । म॒रुत्ऽग॑णः ॥

सायणभाष्यम्

पवमानोदेवः स्थीतमः अतिशयेन रथवान् । ईद्रथिनइतीकारः । तथा शुभ्रेभिः शोभायुक्ते भ्यस्तेजोभ्योपि शुभ्रशस्तमः अत्यन्तदीप्यमानश्च यद्वा निर्मलेभ्योपि निर्मलतमयशोयुक्तः ह- रिश्चन्द्रः ह्रस्वाच्चन्द्रोत्तरपदइति सांहितिकःसुट् हरितवर्नदीप्तिः हरितधारावान् वा मरुद्गणः मरुतोयस्य गणः सहायभूताः सतथोक्तः तादृशः सर्वान् लोकान् स्वरश्मिभिः स्वदीप्तिभिः व्यश्नवत् व्याप्नोत्वित्युत्तरेण संबन्धः ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२