मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २७

संहिता

पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥

पदपाठः

पव॑मानः । वि । अ॒श्न॒व॒त् । र॒श्मिऽभिः॑ । वा॒ज॒ऽसात॑मः ।
दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

पवमानः सोमः रश्मिभिः स्वदीप्तिभिः व्यश्नवत् सर्वंजगद्भ्याप्नोतु । कीदृशः वाजसातमः अतिशयेन अन्नस्यदाता बलस्य स्ंभक्तावा तथा स्तोत्रे पवमानः स्तोत्रंकुर्वते भनवे सुवीर्यं सुवीर्योपेतं पुत्रं धनंवा दधत् विदधत् प्रयच्छन् व्याप्नोतु अश्नोतेर्लेट्यडागमः ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२