मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् २८

संहिता

प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् ।
पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥

पदपाठः

प्र । सु॒वा॒नः । इन्दुः॑ । अ॒क्षा॒रिति॑ । प॒वित्र॑म् । अति॑ । अ॒व्यय॑म् ।
पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥

सायणभाष्यम्

सुवानः अभिषूयमाणः इन्दुः सोमः अव्ययमविमयं ऊर्णास्तुकेननिर्मितं दशापवित्रमती- त्य प्राक्षाः कलशं प्रकर्षेण क्षरति । क्षरतेर्लुङि तिपि सिचि छान्दसइडागमाभावः अतोल् रा- न्तस्येतिवृद्धिः रात्सस्येतिसिचोलोपः रेफान्तंस्पष्टयितुमितिकारः बहुलंछन्दसीतीडभावः हल् ङ्यादिना तोलोपः अनित्यमागमशासनमितिसिचइआ ततः पुनानः पवित्रेण शुद्धः इन्दुः सोमः इन्द्रमाविशति । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२