मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १

संहिता

त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे ।
पव॑स्व मंह॒यद्र॑यिः ॥

पदपाठः

त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि॑ष्ठः । अ॒ध्व॒रे ।
पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥

सायणभाष्यम्

हे सोमाभिषूयमाण पवमान मन्द्रः मोदयितृतमः ओजिष्ठः ओजस्वितमस्त्वं अध्वरे हिं- सारहितेस्मदीयेयज्ञे धारयुः अभिषवणधाराकामोसि भवसि । अतस्त्वं मंहयद्रयिः स्तोतृभ्यः प्रदीयमानधनः सन् पवस्व द्रोणकलशे ग्रहादिषु दशापवित्रेण पूतोभव । यद्वा धारयुः तद्वद- र्थेभाष्यतइति सत्वर्थीयोयुः सः हे सोम त्वं धारावानिव । ततः पवस्वेति संबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३