मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २

संहिता

त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः ।
इन्द्रा॑य सू॒रिरन्ध॑सा ॥

पदपाठः

त्वम् । सु॒तः । नृ॒ऽमाद॑नः । द॒ध॒न्वान् । म॒त्स॒रिन्ऽत॑मः ।
इन्द्रा॑य । सू॒रिः । अन्ध॑सा ॥

सायणभाष्यम्

हे सोम नृमादनः नृणां कर्मणांनेतॄणामृत्विजां मादयिता अतएव दधन्वान् तेभ्योधनानि धारयन् प्रयच्छ्न् । यद्वा यज्ञस्य धारकः सूरिः प्राज्ञः सुतोस्माभिरभिषुतस्त्वं अन्धसा हवी- रूपेणान्नेन सहेन्द्राय मत्सरिन्तमः तस्यातिशयेन मदकारी भव । नाद्घस्येति नकारः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३