मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ४

संहिता

इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।
हरि॒र्वाज॑मचिक्रदत् ॥

पदपाठः

इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ । ति॒रः । वारा॑णि । अ॒व्यया॑ ।
हरिः॑ । वाज॑म् । अ॒चि॒क्र॒द॒त् ॥

सायणभाष्यम्

हिन्वानः ग्रावभिः प्रेर्यमाणोभिषूयमाणइन्दुः सोमः अव्यया अविमयानि अवीनां स्व भू- तानि वाराणि बालानि पवित्राणीत्यर्थः । तानि तिरः तिरस्कृत्य व्यवधाय अर्षति गच्छति प्रभूतं निर्गच्छतीत्यर्थः । सोमं हरिर्हरितवर्णः सोमः वाजमन्नं अचिक्रदत् शब्दयति । त्वया सह इन्द्रमहमाह्वयामीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३