मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ५

संहिता

इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।
वि वाजा॑न्त्सोम॒ गोम॑तः ॥

पदपाठः

इन्दो॒ इति॑ । वि । अव्य॑म् । अ॒र्ष॒सि॒ । वि । श्रवां॑सि । वि । सौभ॑गा ।
वि । वाजा॑न् । सो॒म॒ । गोऽम॑तः ॥

सायणभाष्यम्

हे इन्दो सोम अव्यं अविवालेभवं पवित्रं व्यर्षसि विविघं धाराभिर्गच्छसि । किंच श्रवांसि हवीरूपाण्यन्नानिच विगच्छसि । तथा सौभगा सुभगस्य भावः सौभगं सुभगशब्दः उद्गात्रादिषु पठ्यते । तस्य उत्तरपदवृद्धिर्नेष्यते । सौभगानि धनानि विविधं प्राप्नोति । तथा हे सोम गोमतः पशुमन्ति वाजान् बलानिच विविधंप्राप्नुहि तानि सर्वाण्यस्माकं प्रापयेत्यभिप्रायः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३