मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ६

संहिता

आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
भरा॑ सोम सह॒स्रिण॑म् ॥

पदपाठः

आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
भर॑ । सो॒म॒ । स॒ह॒स्रिण॑म् ॥

सायणभाष्यम्

हे इन्दो पात्रेषु क्षरन् हे सोम नोस्मभ्यमाभर संपादय देहि । किमिति उच्यते शतग्विनं शतंगावोयस्य सशतगुः तद्वन्तं गोमन्तं प्रशस्तपशुमन्तं अश्विनं अश्वयुक्तं सहस्रिणं सहस्रसंख्याकं रयिं धनं पुत्रं वा आभर ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४