मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ७

संहिता

पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
इन्द्रं॒ यामे॑भिराशत ॥

पदपाठः

पव॑मानासः । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।
इन्द्र॑म् । यामे॑भिः । आ॒श॒त॒ ॥

सायणभाष्यम्

पवित्रमूर्णास्तुकेननिर्मितं दशापवित्रं तिरस्कृत्य व्यवधायकं कृत्वा पवमानासः कलशं प्र- ति बहुधाराः क्षरन्तः आशावः क्षिप्रं मदकारिणश्चमसादीन् व्याप्नुवन्तोवा इन्दवः सोमाः यामे- भिः स्वीयैर्गमनैः इन्द्रमाशत व्याप्नुवन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४