मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ८

संहिता

क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।
आ॒युः प॑वत आ॒यवे॑ ॥

पदपाठः

क॒कु॒हः । सो॒म्यः । रसः॑ । इन्दुः॑ । इन्द्रा॑य । पू॒र्व्यः ।
आ॒युः । प॒व॒ते॒ । आ॒यवे॑ ॥

सायणभाष्यम्

ककुहः सोमः सर्वकर्मकारयितृत्वेन सर्वेषां समुच्छ्रितः अतिशयितोभवति । सोयं पूर्व्यः पूर्वैः कृतोभिषुतः पूर्वं प्रातःकाले कृतोवा आयुः इन्द्रं प्रति गंता इन्दुः पात्रेषु क्षरन् सोम्यः म- येचेति यः प्रत्ययः सोममयोरसः आयवे सर्वत्रगन्त्रे इन्द्राय पवते कलशेषु पवित्रेण पूतोभवति । यद्वा इन्द्रार्थम्भिगच्छति । प्वतिर्गतिकर्मा ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४