मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १६

संहिता

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥

पदपाठः

पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥

सायणभाष्यम्

हे सोम मधुमत्तमः अतिशयेनमधुररसवांस्त्वं मन्दयन् मादयिता भवन् । यद्वा इन्द्राय क्रियाग्रहणंकर्तव्यमिति संप्रदानं इन्द्रं मोदमानः सन् पवस्व इन्द्रार्थमागच्छ ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६