मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १८

संहिता

ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥

पदपाठः

ते । सु॒तासः॑ । म॒दिन्ऽत॑माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥

सायणभाष्यम्

मदिन्तमः अतिशयेन मादयितारः शुक्राः दीप्यमानाः सुतासः अभिशुतास्तेसोमाः वायुं शब्द मसृक्षतासृजन्नकार्षुः । यद्वा वायुमेवसोमपानार्थमसृजन् सोमेषु सत्सु वायुस्तत्पानार्थमागच्छ- ति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६