मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १९

संहिता

ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥

पदपाठः

ग्राव्णा॑ । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ ।
दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हे सोम त्वं ग्राव्णातुन्नः अभिपीडितोभिषुतस्त्वं स्तोतृभिरभिष्टुतः सन् पवित्रं गच्छसि प्राप्नोषि । किंकुर्वन् स्तोत्रे स्तोत्रकारिणे जनाय सुवीर्यं शोभनवीर्योपेतं धनादिकं दधत् विधदत् प्रयच्छन् ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६