मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २०

संहिता

ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।
र॒क्षो॒हा वार॑म॒व्यय॑म् ॥

पदपाठः

ए॒षः । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । अति॑ । गा॒ह॒ते॒ ।
र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥

सायणभाष्यम्

तुन्नाः तुदव्यथने ग्रावभिरभिव्यथितः सुतः अतएव सर्वैरभिष्टुतः एषोस्मदीयः सोमोर क्षोहा कर्मविघ्नकारिणां रक्षसां पापानांच हन्ता भवत् । अव्ययमविमयं अव्यवयवभूतं वारं वालं तेनकृतं पवित्रं दशापवित्रमति अतिक्रम्य गाहते द्रोणकलशं प्रविशति ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६