मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २३

संहिता

यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥

पदपाठः

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चिषि॑ । अग्ने॑ । विऽत॑तम् । अ॒न्तः । आ ।
ब्रह्म॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ॥

सायणभाष्यम्

हे पवमानगुणविशिष्टाग्ने ते त्वदीयं पवित्रं शोधकं यत्स्वतेजः अर्चिषि सौरवैद्युतादितेजसि अन्तर्मध्ये आविततं आविस्तृतं विद्यते । यद्वा हे अग्ने ते तव स्वभूतेर्चिषि तेजसि अन्तर्मध्ये यत्पवित्रं शुद्भ्युत्पादकं सामर्थ्यमस्ति तेन तादृशेन तेजसा नोस्माकं ब्रह्म पुत्रादिवर्धनकारि शरीरं पुनीहि पापरहितं पूतं कुरु ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७