मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २४

संहिता

यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥

पदपाठः

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चि॒ऽवत् । अग्ने॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ।
ब्र॒ह्म॒ऽस॒वैः । पु॒नी॒हि॒ । नः॒ ॥

सायणभाष्यम्

हे अग्ने पवित्रं शोधकमर्चिवदर्चिमत् छन्दसीरइतिमतुपोवत्वं सौरादितेजोयुक्तं ते त्वदीयं यत्तेजः विद्यते तेन स्वीयेनैव तेजसा नोस्मान् पुनीहि पूतान् कुरु । किंच ब्रह्मसवैः ब्राह्मणकर्तृ- कसोमाभिषवैः यद्वा ब्रह्म सोमः तस्याभिषवैः नोस्मान् पुनीहि ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७