मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २५

संहिता

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥

पदपाठः

उ॒भाभ्या॑म् । दे॒व॒ । स॒वि॒तः॒ । प॒वित्रे॑ण । स॒वेन॑ । च॒ ।
माम् । पु॒नी॒हि॒ । वि॒श्वतः॑ ॥

सायणभाष्यम्

हे सवितः सर्वस्य प्रेरक हे देव द्योतमान सोम त्वं पवित्रेण पपशोधकेन त्वदीयेन तेजसा सवेन सोमाभिषवेनच एताभ्यामुभाभ्यां विश्वतः सर्वतोमां पुनीहि पूतं कुरु ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७