मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २६

संहिता

त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।
अग्ने॒ दक्षै॑ः पुनीहि नः ॥

पदपाठः

त्रि॒ऽभिः । त्वम् । दे॒व॒ । स॒वि॒तः॒ । वर्षि॑ष्ठैः । सो॒म॒ । धाम॑ऽभिः ।
अग्ने॑ । दक्षैः॑ । पु॒नी॒हि॒ । नः॒ ॥

सायणभाष्यम्

हे देव स्तुत्य दीप्यमान वा हे सवितः सर्वस्य स्वस्वकर्मणि चोदयितः हे सोम पवमान- गुणविणविशिष्ट हे अग्ने त्वं वर्षिष्ठैः वृद्धतमैः अतएव दक्षैः सामर्थ्यवद्भिस्त्रिभिर्धामभिः शरीरै- रग्निवायुसूर्यात्मकैस्त्रिभिः शरीरैः नोस्मान्पुनीहि परिशुद्धान् कुरु ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८