मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २७

संहिता

पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥

पदपाठः

पु॒नन्तु॑ । माम् । दे॒व॒ऽज॒नाः । पु॒नन्तु॑ । वस॑वः । धि॒या ।
विश्वे॑ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात॑ऽवेदः । पु॒नी॒हि । मा॒ ॥

सायणभाष्यम्

देवजनाः देवानां जनःप्रादुर्भावोयेषां यज्ञेष्विते देवजनायजमानाः । यद्वा इन्द्रादिदेवगणाः मां पुनन्तु परिपूतं कुर्वन्तु । तथा वसवः वासकादेवाः धिया आत्मीयेनकर्मणा मां पुनन्तु । अथवा प्रत्यक्षः हे विश्वदेवाः सर्वेदेवाः मा मां पुनीत पूतं कुरुत । हे जातवेदः जातानि वेत्तीति यद्वा जातप्रज्ञ अग्ने मा मां पुनीहि ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८