मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् २८

संहिता

प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभि॑ः ।
दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥

पदपाठः

प्र । प्या॒य॒स्व॒ । प्र । स्य॒न्द॒स्व॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ ।
दे॒वेभ्यः॑ । उ॒त्ऽत॒मम् । ह॒विः ॥

सायणभाष्यम्

हे सोम प्रप्यायस्व अस्मान् प्रकर्षेण वर्धय । यद्वा देवान् सोमेन वर्धय । किंच विश्वेभिरंशुभिः सर्वैस्त्वदीयैरंशुभिः देवेभ्योदेवार्थमुत्तमं प्रशस्ततमंहविः सोमरूपं प्रस्यंदस्व कलशादीन् प्रति प्रस्रव प्रयच्छेति यावत् ॥ २८ ॥ अग्नीषोमप्रणयने उपप्रियमित्येषा । सूत्रितंच—उपप्रियंपनिप्नतमित्यर्धर्चआरमेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८