मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ३१

संहिता

यः पा॑वमा॒नीर॒ध्येत्यृषि॑भि॒ः सम्भृ॑तं॒ रस॑म् ।
सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥

पदपाठः

यः । पा॒व॒मा॒नीः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।
सर्व॒म् । सः । पू॒तम् । अ॒श्ना॒ति॒ । स्व॒दि॒तम् । मा॒त॒रिश्व॑ना ॥

सायणभाष्यम्

योजनः पावमानीः पवमानदेवताकाः सर्वाऋचः तद्रूपं ऋशिभिः सूक्तद्रष्टृभिर्मधुच्छन्दः प्रभृ तिभिः संभृतं संपादितं रसं वेदरसभूतं सारं सूक्तसंघं अध्येति अधीते । सजनः सर्वभोज्यजातं पूतं परिशुद्धमेवाश्नाति परिपूतं पापरहितं अन्नं भक्षयति । कथमस्यपूतत्वं तत्राह—स्वस्याश- नात्प्रागेव मातरिश्वना मातरि अन्तरिक्षे श्वसितीति मातरिश्वा वायुः सचवायुःपवित्रमेव । पवित्रेण वायुना स्वदितं स्वादूकृतम् । परिपूतमेवान्नं पश्चात् सनरोश्नाति ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८