मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ३२

संहिता

पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒ः सम्भृ॑तं॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥

पदपाठः

पा॒व॒मा॒नीः । यः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।
तस्मै॑ । सर॑स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु॑ । उ॒द॒कम् ॥

सायणभाष्यम्

योब्राह्मणः पावमानीः पवमानदेवताकाऋचः तदात्मकं ऋषिभिर्मधुच्छन्दआदिभिः सं- भृतंरसं वेदसारं सूक्तसंघं अध्येति अधीते । तस्मै पवमानाध्ययनं कुर्वते जनाय सरस्वतीसर्व- त्रसरणवती वाग्देवता क्षीरं यज्ञसाधनभूतं पयः सर्पिस्तादृशं घृतं मधु मदकरमुदकं सोमं दुहे स्वयमेव दोग्धि एनं नरं यागादिपरं वेदशास्त्रविदं करोबीत्यर्थः । दुहप्रपूरणे कर्मकर्तरि नदुह- स्नुनमांयक् चिणावितियकः प्रतिषेधः । लोपस्तआत्मनेपदेष्विति तलोपः ॥ ३२ ॥

चतुर्थेनुवाके अष्टादशसूक्तानि तत्र प्रदेवमितिदशर्चं प्रथमं सूक्तं भलंदनपुत्रस्य वत्सप्रेरार्षं पवमानसोमदेवताकं दशमी त्रिष्टुप् शिष्टाजगत्यः । तथाचानुक्रम्यते—प्रदेवंदशवत्सप्रिर्भालंदनः त्रिष्टुबन्तंहेति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८