मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् १

संहिता

प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नवः॑ ।
ब॒र्हि॒षदो॑ वच॒नाव॑न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥

पदपाठः

प्र । दे॒वम् । अच्छ॑ । मधु॑ऽमन्तः । इन्द॑वः । असि॑स्यदन्त । गावः॑ । आ । न । धे॒नवः॑ ।
ब॒र्हि॒ऽसदः॑ । व॒च॒नाऽव॑न्तः । ऊध॑ऽभिः । प॒रि॒ऽस्रुत॑म् । उ॒स्रियाः॑ । निः॒ऽनिज॑म् । धि॒रे॒ ॥

सायणभाष्यम्

मधुमन्तो मादकरससंयुक्ता इन्दवः सोमाः देवं द्योतमानं सोमात्मकमिद्रं अच्छ प्रति प्रा- सिष्यदन्त प्रस्यन्दन्ते ग्रहादिषु क्षरन्ति । स्यन्दतेर्लुङि चङि रूपम् । तत्रदृष्टान्तः—गावआनधेनवः पयस्विन्यः प्रीणयित्र्योगावोयथावत्संप्रतियांतिप्रस्रवन्ति तद्वत् । किंच बर्हिषदः बर्हिषि सीद- न्तः वचनावन्तः हंभारवादिशब्दवन्तः अस्रियाः गोनामैतत् तादृश्योगावः ऊधभिः पयोधारकैः स्वैः स्वैरूधभिः ताभ्यः परिस्रुतं परितःस्रवणशीलं निर्णिजं शुद्धं पयोभूतं सोमरसं धिरे दधिरे इंद्रार्थं धारयन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९