मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् २

संहिता

स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुहः॑ श्र॒थय॑न्त्स्वादते॒ हरि॑ः ।
ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वर॑म् ॥

पदपाठः

सः । रोरु॑वत् । अ॒भि । पूर्वाः॑ । अ॒चि॒क्र॒द॒त् । उ॒प॒ऽआ॒रुहः॑ । श्र॒थय॑न् । स्वा॒द॒ते॒ । हरिः॑ ।
ति॒रः । प॒वित्र॑म् । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । नि । शर्या॑णि । द॒ध॒ते॒ । दे॒वः । आ । वर॑म् ॥

सायणभाष्यम्

रोरुवत् कलशादिकंप्रति अत्यन्तं शब्दंकुर्वन् ससोमः पूर्वामुख्याः स्तोतॄणां स्तुतीः अभ्यचिक्र दत् अभिमुखं अध्वनयत् स्तुतयः साधीयस्यइति प्रतिध्वनिमंगीकारमकार्षीदित्यर्थः । किंच हरिः हरितवर्णः उपारुहः रोहतेस्ताच्छीलिकःक्विप् । उपारोहणशीलाः उर्ध्वप्रादुर्भवनशीला ओषधीः श्रथयन् अग्रे विश्लेषयन् स्वादते स्वादुकरोति ताः फलिनीःकुर्वन् स्वादुयुक्ता विदधातीत्यर्थः । तथा पवित्रं अविवालात्मकं दशापवित्रं तिरस्तिरस्कृत्य पात्राणि प्रति आत्मनःक्षरणकाले पवि- त्रं व्यवधायकं कृत्वा परियन् परितोगच्छन् सोमः उरु महान्तं ज्रयोवेगं करोति । ततः सशर्या- णि शॄहिंसायां हिंसितव्यानि यद्वा शरेण हंतव्यानि रक्षांसि निदधते निक्षिपति न्यक्करोति हिन- स्तीतियावत् । पश्चाद्देवोदीप्यमानः सोमः वरं वरणीयं धनं सोमं दातृभ्योयजमानेभ्यः आदधते आधारयति प्रयच्छतीत्यर्थः । दधातेर्लेट्यडागमे घोर्लोपोलेटिवेत्याकारलोपः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९