मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् ३

संहिता

वि यो म॒मे य॒म्या॑ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता ।
म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥

पदपाठः

वि । यः । म॒मे । य॒म्या॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । मदः॑ । सा॒का॒म्ऽवृधा॑ । पय॑सा । पि॒न्व॒त् । अक्षि॑ता ।
म॒ही इति॑ । अ॒पा॒रे इति॑ । रज॑सी॒ इति॑ । वि॒ऽवेवि॑दत् । अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाजः॑ । आ । द॒दे॒ ॥

सायणभाष्यम्

योमदः माद्यत्यनेनेति मदः सोमरसः यम्या युगलभूते संयती परस्परंसंगच्छमाने द्यावापृथि व्यौ विममे विशेषेणनिर्मितवान् ततः ते साकंवृधा सहैववर्धनशीले तथा अक्षिता अक्षीणे साम- र्थ्यवत्यौ यथा भविष्यतः तथा ससोमः पयसा पयोरूपेण स्वीयरसेन पिन्वदसिंचत् अवर्ध यदि- तियावत् । किंच मही महत्यौ अतएव अपारे पर्यंतरहिते रजसी द्यावापृथिवीनामैतत् ते द्यावा- पृथिव्यौ विवेविदत् विदज्ञाने यङ्लुकि शतरि रूपम् । अभ्यासस्वरः । इयंपृथिवी इयंद्यौरिति सर्वेषां विविच्य तेजसाप्रज्ञापयन् अभिव्रजन् अभितः सर्वातोगच्छन् सोमः अक्षितं अक्षीणं अवि नश्वरं पाजोबलं आददे स्वीकृतवान् अत्यन्तंबलवानभवदित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९