मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् ४

संहिता

स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दम् ।
अं॒शुर्यवे॑न पिपिशे य॒तो नृभि॒ः सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ॥

पदपाठः

सः । मा॒तरा॑ । वि॒ऽचर॑न् । वा॒जय॑न् । अ॒पः । प्र । मेधि॑रः । स्व॒धया॑ । पि॒न्व॒ते॒ । प॒दम् ।
अं॒शुः । यवे॑न । पि॒पि॒शे॒ । य॒तः । नृऽभिः॑ । सम् । जा॒मिऽभिः॑ । नस॑ते । रक्ष॑ते । शिरः॑ ॥

सायणभाष्यम्

मेधिरः मेधारथाभ्यामिरन्निरचावितीरन्प्रत्ययोमत्वर्थीयः । मेधावान् प्राज्ञाः ससोमः मा- तर मातरौ जगतोनिर्मात्र्यौ द्याव्यापृथिव्यौ विचरन् अन्तरेणात्यन्तं चरन् । तथा अपः अन्त- रिक्षस्थितान्युदकानि वाजयन् प्रेरयन् । वजेर्ण्यन्तस्य शतरि रूपम् । तादृशः स्वधया सक्तुलक्षणे- नान्नेन सह पदं स्वस्थानं उत्तरवेदिरूपं प्रपिन्वते प्रकर्षेणाप्याययति । ततः नृभिः कर्मनेतृभिः ऋत्विग्भिर्यतः संयतः अंशुः सोमःयवेन पिपिशे पिश अवयवे अवयवत्वेन कृतः मिश्रितइत्यर्थः । सोमस्तु यवसक्तुभिः श्रियतेखलु । सोयं जामिभिः एकस्मात्पाणेरुत्पन्नाभिरंगुलीभिः सन्नसते- संगच्छतेच । शिरः शीर्णं भूतजातं रक्षतेच स्वीयरसेन रक्षति पोषयति । नसतिर्गतिकर्मा चादि- लोपेविभाषेति न निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९