मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् ५

संहिता

सं दक्षे॑ण॒ मन॑सा जायते क॒विरृ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः ।
यूना॑ ह॒ सन्ता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ॥

पदपाठः

सम् । दक्षे॑ण । मन॑सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य॑ । गर्भः॑ । निऽहि॑तः । य॒मा । प॒रः ।
यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् । उत्ऽय॑तम् ॥

सायणभाष्यम्

प्रसंगात्सोमसूर्ययोराविर्भावमाह । कविः दक्षेण प्रवृद्धेन मनसा सह संजायते पृथिव्याः सम्यक् जायते । तथा ऋतस्योदकस्येव गर्भो गर्भस्थानीयः । यद्वा सत्यस्य यज्ञस्य मध्ये गर्भः शब्दनीयः स्तुत्यः सएवसोमः परः परस्तादन्तरिक्षे यमोयमेन नियमेन देवैर्निहितः सः सू- र्याद्धि वृष्टिर्भवति तस्मात्सोमः सूर्यात्मकतयावस्थितइत्यर्थः । एवं यूना । हेत्यवधारणे । यु- वानावेव सन्तौ तौ प्रथमं जननकाले विजज्ञतुः अयंसोमोयंसूर्यइति विशेषेण ज्ञायते । तयो- श्चार्धं जनिम जन्म गुहा गुहायां हितं निहितं भवति । तयोर्नेममर्धंचोद्यतं प्रकाशितं भवति । दिवा सूर्यःप्रादुर्भवति रात्रौ चन्द्रमाइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९