मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् ६

संहिता

म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदन्धो॒ अभ॑रत्परा॒वतः॑ ।
तं म॑र्जयन्त सु॒वृधं॑ न॒दीष्वाँ उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय॑म् ॥

पदपाठः

म॒न्द्रस्य॑ । रू॒पम् । वि॒वि॒दुः॒ । म॒नी॒षिणः॑ । श्ये॒नः । यत् । अन्धः॑ । अभ॑रत् । प॒रा॒ऽवतः॑ ।
तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽवृध॑म् । न॒दीषु॑ । आ । उ॒शन्त॑म् । अं॒शुम् । प॒रि॒ऽयन्त॑म् । ऋ॒ग्मिय॑म् ॥

सायणभाष्यम्

मनीषिणः प्राज्ञा यष्टारः मंद्रस्य मदकरस्य रसस्य सोमस्य रूपं विविदुः जानन्ति यदन्धः यत्सोमलक्षणमन्नं श्येनो गायत्रीरूपः पक्षी परावतो दूरात् द्युलोकात् आभरद्भ्यजहार । हृग्र- होर्भश्छन्दसीति भकारः । तं तादृशं सुवृधं सुष्ठुवर्धमानं सुवर्धयितारंवा अंशुं सोमं नदीषु नद- मानासु वसतीवर्याख्यास्वप्सु आमर्जयन्त ऋत्विजः आशोधयन्ति अलंकुर्वन्तिवा । कीदृशं उशन्तं देवान् कामयमानं परियन्तं परितोगच्छन्तं ऋग्मियं ऋगर्हं स्तुत्यं सोममामर्जयन्ती- ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०